संस्कृतं आर्षभारतस्य आत्मा भवति - पि. पि. श्रीधरनुणिः
कोष़िक्कोट्> आत्मा नास्ति चेत् जडः भवति । अतः भारतस्य आत्मनः संकृतस्य संरक्षणं अद्य अस्माकं कर्तव्यमेव । इयंभाषा भाषाणांमाता , श्रेष्ठा च भवति । अतः अस्माकं संस्कारस्य पुनरानयनायनं संस्कृतेन कर्तुं शक्यते । तदर्थं विश्वसंस्कृतप्रतिष्ठानेन कृतानि कार्याणि अभिनन्दार्हाणि । " इति कविना पि. पि. श्रीधरनुणि महाशयेन उक्तम्। विश्वसंस्कृतप्रतिष्ठानस्य कोष़िक्कोट् जनपदसम्मेलनस्य प्रतिनिधिसभायाः उद्घाटनं कृत्वा महोदयः भाषमाणः आसीत् सः।