अस्य संवत्सरस्य अशोकन् पुरनाट्टुकरा- भारतमुद्रा पुरस्काराय के अरविन्दाक्षःचितः।
तृश्शूर् >प्रसिद्ध संस्कृतभाषा साहित्यपण्डितः, विवर्तकः,पत्रिकाकार्यकर्ता,शिक्षकः च आसीत् अशोकन् पुरनाट्टुकरा। तस्य स्मरणार्थं दीयमानाय भारतमुद्रा पुरस्काराय विख्यात परिस्थतिप्रवर्तकः के अरविन्दाक्षः निर्वाचितः। डा. जयपोलः, डा.वि के विजयः,एन् राजगोपालः इत्यादि विधिकतॄणां श्रेण्या चयनमिदं कृतम्।१०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च सन्ति अस्मिन् पुरस्कारे।मेय् मासस्य नवमदिनाङ्के पञ्चवादने तृश्शूरसाहित्याक्कादम्यां अशोकन् पुरनाट्टुकरा अनुस्मरण सम्मेलने प्रशस्तसाहित्यकारः सी आर परमेश्वरः पुरस्कारदानं करिष्यति।