एडप्पाडी पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि शासनं करिष्यति , ओ पनीर् सेल्वं अध्यक्ष:।।
चेन्नै नगरम् > अण्णा डी एम् के मध्ये सन्धिसंभाषणे समवायो अभवत्। एडप्पाडी पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि भवतु ,ओ पनीर् सेल्वं अध्यक्ष: भविष्यतिशशिकला टि दिनकरः एतयोः विरामपत्रं स्वीकर्तुं निर्देशः अभवत् । उभौ संघटना मध्ये पुनः अपि भविष्यति इति दिनकरस्य अभिप्रायः इत्यस्मात् निर्देश: । ओ पनीर् सेल्वंस्य सर्वानापि निर्देशान् उपाधिं विना एव स्वीकृतवन्त: ।।
छोटा राजं अनुचरान् च सप्तवर्षं यावत् कारागारवासः।
नवदेहली> व्याजपास्पोर्ट् विवादे अधोलोक नेतारं छोटाराजं तथा तस्य त्रीन् अनुचरान् सर्वकारीय कर्मकरान् च सप्तवर्षाणां कारागारवासः दिल्ली विशिष्ट न्यायालयेन विहितः।इदानीं तीहार कारागारे अस्ति छोटा राजः। सः २०१५ अक्तूबर मासे इन्तोनेषिया राष्ट्रस्य बालीतः गृहीतः।