संयुक्तप्रवेशपरीक्षायां १००% अङ्केन कल्पितवीर्वल: प्रथमस्थाने ।
नवदिल्ली > संयुक्तप्रवेशपरीक्षाया: प्रधानपरीक्षायां राजस्थानस्य उदयपुरादागत: कल्पितवीर्वल: सम्पूर्णाङ्कान् प्राप्तवान्। षष्ट्युत्तरत्रिशते षष्ट्युत्तरत्रिशतम् अङ्कान् स: प्राप्तवान् (३६०/३६०)। राष्ट्रस्य एकसहस्रं सप्तशतम् एकाशीति:( १७८१) केन्द्रेषु दश दशांशम् द्वे ( १०.२ ) लक्षं छात्रा: जे ई ईम् लिखितवन्त:। ऐ ऐ टी षु ,एन् ऐ टी षु , बी टेक् , बी आर्क् , बी ई प्रवेशनानां कृते चाल्यमाना परीक्षा एव संयुक्तप्रवेशपरीक्षा । पूर्वमेव भारत-बाल-वैज्ञान ओलिम्ब्याड् (इन्डियन् जूनियर् सयन्स् ओलिम्ब्याड् ) देशीय सामर्थ्यान्वेषणपरीक्षा ( नाषणल् टालन्ट् सेर्च् )इत्येतासु परीक्षासु कल्पित: प्रथमस्थानं प्राप्तवान् आसीत् । क्रिकट् , बाड्मिन्टण आदिषु तत्पर: अयम् मुम्बै ऐ ऐ ट्याम् प्रवेशनम् इच्छति । प्रतिदिनं पञ्चत: षट् पर्यन्तं घण्टा: कल्पितस्य पठनवेला । कदापि स: कक्ष्यानष्टं न सहते स्म । तस्य पिता उदयपुरस्थ महाराणा भूपल सर्वकारीयातुरालये औषधदाता (Compounder)भवति । माता पुष्पा वीर्वल: अध्यापिका। ज्येष्ठसहोदर: एयिंस् मध्ये वैद्यकीयछात्र:।