२५ वर्षेभ्य: एष: मनुष्य: केवलं शाखाखण्डान् पर्णानि च भक्षयति; रोगरहितोयम् ।।
लाहोर् > मितभोजनमलब्ध्वा दुर्भिक्षेण जना: क्लिश्यन्ति इति वार्ता: वयं प्रतिदिनं शृणुम: । किन्तु पाकिस्थाने वर्षेभ्य: प्रतिदिनं शाखाखण्डान् पर्णानि च खादित्वा जीवन् कश्चन वर्तते । पाक् पञ्चाब् प्रविश्यायां गुज्रण्वाला मण्डलवासी महमूद: एव गत२५ वर्षेभ्य: एवं असाधारणभोजनेन जीवति । एतावता कालेन एतस्य रोगा: नागता: इति माध्यमानि ज्ञापयन्ति । २५ त्यां वयसि स: एतादृशभोजनरीतिम् आरब्धवान् । स्वगृहे अतिदारिद्र्येण भोजनप्राप्तिरपि कष्टकराभवत् इति महमूद: वदति । मार्गपार्श्वे उपविश्य याचनात्परम् उत्तमं कार्यं शाखाखण्डानां पर्णानाम् अशनमिति स्वयं चिन्तितवान् इति च स: वदति। इदानीम् एतेषां खादनं महमूदस्य शील: अभवत्। गर्दभयानम् तस्य एकमात्रोपजीवनमार्ग:।प्रतिदिनं ६० पाकिस्थानि रूप्यकाणि तस्य आय:। वट: तालि सक् चेयिन् आदिवृक्षाणां पल्लवशाखा: तस्य इष्टविभव:। विचित्रेण भक्षणशीलेन जना: महमूदम् अद्भुतेन पश्यन्ति। गमनमार्गे कुत्रापि इष्टवृक्षा: सस्यानि वा दृष्टानि चेत् विलम्बं विना तत: भोजनमन्वेष्टुम् एष: आलस्यं न प्रकटयति।