लवणजलं पानाय परिवर्तनं कृत्वा - भारतीयः विद्यार्थी।
सान्-फान्सिस्को > लवणजलं लघुव्ययेन पानीयं कर्तुं नूतनया विद्यया चैतन्यः नामकः विद्यार्थी । यू एस् साम्राज्यस्य विख्याताः विश्वविद्यालयाः प्रमुखाः वैज्ञानिकसंस्थाः च अस्य अनुसन्धाने तत्परतां प्रकाशिता सन्ति।पोर्ट्लाण्डस्य ओरिगनिल् जे स्यूट् उच्च विद्यालयस्य विद्यार्थी चैतन्यः करंचेदु एव कुशलः अयं बालकः । एषः कक्ष्यायां परीक्षणप्रदर्शनेन लवण २०-२० क्रिडायां भारतेन जय: प्राप्त:युक्तं जलं पानयोग्यम् अकरोत्। शुद्घजलाभावेन पीडितः आसीत् इत्यनेन अनुसन्धानाय प्रेरणाम् अलभत इति सः कथितवान् ।
भूभागेषु प्रतिशतं सप्तति (७०%) भागाः समुद्रजलमेव- किन्तु लवणजलमेव। यावत्कालं लवणांशनिवारणाय समीचीन मार्गाय वैज्ञानिकः श्रमम् अकुर्वन्। तथापि अल्पव्ययेन तत् असाघ्यमासीत् । इदानीं चैतन्यस्य प्रयत्नेन तत् साध्यमभवत् । सागरजले प्रतिशतं दश अंशाः एव लवणः । चैतन्यः पोलिमर् द्वारा लवणांशः निवारितवान्।
भारतीया क्रिक्कट् क्रीडा।
दृक्साक्षिविवरणं संस्कृतभाषया
वाराणसी> धर्मशालायां नूतनरीत्या क्रिक्कट् क्रीडा आयोजिता। परम्परागतवैदेशिकवस्त्राणां स्थाने भारतीयसंस्कृतिद्योतकं वस्त्रधारणं - धोत्ती कुर्ता च - स्वीकृतम्। विशिष्य दृक्साक्षिविवरणमपि संस्कृतभाषायामेव कृतम्।दृक्साक्षिविवरणं संस्कृतभाषया
२०-२० क्रिडायां भारतेन जय: प्राप्त:
अधुनाsपि अस्माकं भारतदेशे तादृशा: बहव: जना: सन्ति ये च दिव्यांगानामुपरि हसन्ति। परञ्च अस्माकम् भारतीय-दिव्यांग-क्रिकेट् क्रिडकदलेन प्रस्तुति कृतं यत् वयं अपि पृष्ठे न स्म इति। न्यूसिलन्ड् देशं विरुद्ध्य क्रीडन्त: भारतीयदलेन जयं प्राप्य सेमीफाइनल मध्ये स्व स्थानं सुरक्षीकृतम्। न्यूसिलन्ड् दलस्य पक्षत: १३७ अंकानां लक्ष्यं लब्धमासीत् परञ्च भारतस्य पक्षत: अजयकुमार रेड्डी इत्याख्येन क्रिडकेन २८ कन्दुकक्षेपणे ७५ अंका: प्राप्ता: अनेन भारतेन सारल्येन जय: प्राप्त:।