विमाननिलयस्य समीपे स्थितं भवनं विमानस्य भ्रंशपथगतिवशात् भग्नम् अभवत्। सप्तत्रिंशत् जनाः मृताः पञ्चदशजनाः व्रणिताः।
ब्रिष्केक्> मध्येष्यायाः किर्गिस्थानस्य राजधान्यां वर्तमानस्य मनास् विमान-विमाननिलयस्य समीपे जनवासकेन्द्रे एव दुर्घटना जाता। तत्र उषिताः जनाः विमानकर्मकराः च आहत्य सप्तत्रिंशत् जनाः तैस्सह मृताः। होङ्कोङ्तः आगतः आसीत् विमानम्। दुर्घटनायाः कारणम् हिम-धूमपटलः इति अनुमीयते। अफ्गानिस्थानस्योपरि सैनिकप्रवर्तनाय यू.एस् राष्ट्राय दत्तमासीत् एतत् निस्थानम्। उपयोगानन्तरं २०१४तमे यू एस् राष्ट्रेण प्रत्यर्पित मासीत् । किर्गिस्थानस्य बृहत्तमं विमान मिस्थानं भवति एतत्। Photo -Royitors
ए टि एम् द्वारा दशसहस्रम्।
मुम्बई>ए टि एम् यन्त्रद्वारा प्रतिदिनं प्रतिनिवृत्तमानानां रूप्यकाणां संख्या दशसहस्रं यावत् वित्तकोशकार्यालयेन वर्धिता। इतःपर्यन्तं ४५०० रुप्यकाणि आसन्। ए टि एम् द्वारा निश्शुल्कव्यवहाराणां संख्या मेट्रोनगरेषु प्रतिमासं तिस्रः, ग्रामेषु पञ्च इति नियन्त्रणम् आवश्यकमिति वित्तकोशैः वित्तमन्त्रालयं प्रति निर्दिष्टम्।
पंजाबविधानसभायै नामांकनम्
पटियाला>कांग्रेसस्य कैप्टन अमरिंदरसिंहेन अकालीदलस्य जे जे सिंहेन पटियाला-विधानसभासनात् नामांकनं कृतम्। पंजाबविधानसभायै एकस्मिन् चरणे फरवरी मासस्य चतुर्थे दिनांके मतदानं भविष्यति।