भारतीय विद्यानिकेतनस्य विद्यालय कलोत्सवः सम्पूर्णमभवत् ।
कोट्टयं जनपदस्य किरीटप्राप्तिः।
कोट्टयम् (केरळम्) > भा. वि. नि विद्यालयस्य विद्यालयकलोत्सवः ह्यः सम्पन्नः। कोट्टयम् जनपदः किरीटाधिकारी अभवत्। अस्मिन् कलोत्सवे त्रिसहस्रं छात्राः स्पर्धासु भागभाजाः अभवन्। भारतस्य शिक्षा मण्डलेषु प्रसिद्धा सर्वकारेतर अध्ययनसंस्था भवति विद्याभारति। विद्या भारत्याः केरलविभागः भवति विद्या निकेतन् । अस्याः त्रयोदशत्तम कलोत्ससवः आसीदियम्।
फिल्मफेयर् पुरस्काराः
द्विषष्टितमे फिल्मफेयर पुरस्कारेषु दङ्गलचलच्चित्रेण श्रेष्ठचलच्चित्र,श्रेष्ठनिर्देशक,श्रेष्ठाभिनेता चेति पुरस्काराः विजिताः । आलियाभट्टः श्रेष्ठाभिनेत्री पुरस्कारेण सभाजिता ।
गंगासागरे समायोजितमेलके सम्भ्रमपलायनदुर्घटना
कोल्कत्ता > पश्चिमबंगालस्य गंगासागरे मकरसङ्क्रांतिपर्वणि समायोजिते मेलके ससंभ्रमपलायने न्यूनान्न्यूनं षड्जनाः मृत्युमुपगताः। नेकै व्रणिताः संसूच्यन्ते व्रणितानामुपचारः प्रचलति। राष्ट्रियापदुद्धारबलेन साहाय्योद्धारकार्याणि सजवं प्रवर्त्यन्ते | ध्यातव्यमिदं यत् गंगासागरे मेलकस्यास्यायोजनं प्रतिवर्षं भवति ।
69तमः सेनादिवसः आमानितः
प्रधानमन्त्रिणा सैन्यभटाः प्रशंसिताः
नव दिल्ली >सैन्यदिवसावसरे प्रधानमंत्रिणा नरेंद्रमोदिना सैन्यभटा: वर्धापिताः । ट्वीटसंदेशे भारतीयसेनायाः अतुल्यपराक्रमस्य महत्तां प्रशंसता मोदिना प्रोदीरितं यत् देशस्य संप्रभुताविषये प्राकृतिक-आपत्सु च नागरिकाणां रक्षा सैन्यबलैः अनारतं समाचर्यते ।