उत्तराखण्ड स्कृतशोधसम्मेलनम् - फरवरी- 17, 18, 19 दिनाङ्केषु।
उत्तराखण्ड संस्कृत अकादमी (उत्तराखण्ड-सर्वकार:) संस्कृत भाषायाः प्रचारार्थं,संरक्षणार्थं तथा च संस्कृत-जगति नूतन-अनुसन्धान-प्रोत्साहनार्थं त्रिदिनात्मकं अखिलभारतीयं संस्कृतशोधसम्मेलनस्य आयोजनं फरवरीमासस्य 17, 18, 19 दिनांकेषु करिष्यति। अकाद्म्याः सचिवः जी एस भाकुनि उक्तवान् यत् संस्कृते सर्वविधज्ञानविज्ञानं निहितम् अस्ति, संस्कृतस्य संवर्धनेन राष्ट्रे सत्विकवृत्ते: वैज्ञानिकप्रमाणिकतायाः च संचरणं भविष्यति. सम्मेलनस्य विषयः 'वर्तमानकाले स्मृतिवाड्मयस्य उपादेयता' इति निर्धारितमस्ति। सम्मेलने सर्वे विद्वांसः,प्राध्यापकाः शिक्षकाः च शोधपत्रं प्रस्तौतुं शक्नुवन्ति. शोधपत्रम् आवेदनपत्रञ्च प्रेषणस्य अन्तिमा तिथिः 30-12-2016 अस्ति. आवेदनपत्रम् अकाद्म्याः अन्तर्जाले उपलब्धमस्ति।