संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च दीर्घ-धावनम्।
नवदेहली>संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च गतदिने (२०-नवम्बर’२०१६,
रविवासरे) नवदिल्ल्यां जवाहरलाल-नेहरु-क्रीडाङ्गणतः दीर्घ-धावनम् आयोजितम्। अस्मिन्
अनन्यतमायाः "नेक्टरलेण्ड्"( NectarLand) इति संस्कृतस्य स्वयं-सेविसंस्थायाः
अनेकैः सदस्यैः सोत्साहं सहभागित्वं निर्व्यूढम्। नवम्बर-मासे प्रतिवर्षम्
आयोज्यमाने अस्मिन् दीर्घधावने "नेक्टरलेण्ड्" इत्यस्याः इदं
तृतीयं सहभागित्वं वर्तते।
एषा संस्था अभिकल्पनाभिः विविध-वर्णैः चित्रैश्च
प्रकाशितैः हिन्दी-आङ्ग्ल-अनुवाद-लिप्यन् तरणयुतैः लघु-लघु-पुस्तकैः जनेषु, विशेषेण
च युवजनेषु संस्कृतानुरागिषु च संस्कृत-भाषां संस्कृत-साहित्यञ्च प्रति पठन-संभाषण-रुचिं
समुत्पाद्य “भाषैषा कठिना” इति भ्रान्तिम् अपनोदयति।
अनया संस्थया विगते वर्षे भारतीय-संस्कृत-पत्रकार-संघेन
आयोजितायां पञ्चम्यां संस्कृत-पत्रकार-संगोष्ठ्यां सहभागित्वम् आदाय संस्कृत-शिक्षणस्य
कृते समाजे विहितानि संस्कृत-विषयकाणि विविध-कार्याणि प्रदर्शितानि आसन्। अस्याः
संस्थायाः वैशिष्ट्यमस्ति यत् प्रायेण युवानः वैज्ञानिकाः, अभिकल्पकाः( designers), प्रविधिज्ञाः(technicians), अभियन्तारः, चित्रमुद्रण-विशेषज्ञाः(graphic-experts) च सदस्यत्वेन
संस्कृत-कार्याणि परिनिष्ठित-भावेन समाचरन्ति।