आन् फ्राङ्कस्य कवितायाः कोटि रुप्यकाणां मूल्यम्
आम्सटर् डाँ > आन्फ्राङ्क् नाम बालिकायाः हस्तलिखिता कविता अस्ति, तस्याः कृते कोटि रुप्यकाणि लब्धानि। द्विचत्वारिंशत् अधिक नव-शतोत्तर एक-सहस्रतमे (१९४२)मार्च् मासे अष्टाविंशति दिनांगे लिखिता कविता इयम्। अस्मिन् द्वादश पङ्क्तयः सन्ति। गतदिने हार् लीमा नगरे आयोजिते आहूतविपणनेन विक्रीता इयम्। काकदे श्याम-वर्णेन डच्च् भाषायां लिखिता कवितेयम् ।
आन् लीस् मेरी फ्राङ्क् नामिका जूत-गोत्रीय-बालिकया लिखिता दैनिकी विश्वे प्रसिद्धा भवति । आन् फ्राङ्कस्य दैनिकीलेखम् इति एव अस्य लेखस्य नाम। अस्मिन् नासीनायकस्य हिट्लरस्य पीडनानि विस्तरेण लिखितानि सन्ति।