मोदी जापानदेशे - आणवसन्धिः हस्ताक्षरीकृतः।
टोकियो>त्रिदिवसीयसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जाप्पानदेशं प्राप्तवान्। जापानस्य प्रधानमन्त्रिणा षिन्सो अबे महोदयेन सह मेलनं कृत्वा शान्तिपूर्णं सहवर्तित्वं लक्ष्यीकृत्य आणवसन्धिं यथातथं कृतवान्। उभयराष्ट्रयोः आर्थिक -सुरक्षामण्डलेषु परस्परबन्धं दृढीकर्तुं अयं सन्धिः सहायकं भविष्यति।