शनि-रविवासरयोः वित्तकोशाः प्रवर्तिष्यन्ते।
नवदिल्ली - राष्ट्रे सर्वे वित्तकोशाः [बेङ्काः] सामान्यजनानां कृते शनिवासरॆ रविवासरे च [नवं १२,१३ तमे दिनाङ्कयोः] साधारणरीत्या समुद्घाट्य प्रवर्तिष्यन्ते। एतदनुसृतः निर्देशः भारतीय रिसर्व् बाङ्केन कृतः।सामान्यमण्डलबेङ्काः स्वकीयबेङ्काः तथा ग्रामीण- सहकरण-विदेश-प्रादेशिक बाङ्कैरपि अयं निर्देशः अनुुसरणीय इति विज्ञापितमस्ति।