सूरतनगरेराष्ट्रपितामहात्मा गाँधी वर्यस्य पौत्र: कनु गाँधी दिवंगत:
महात्मागाँधी वर्यस्यपौत्र: कनुरामदासगाँधी वर्यस्य(87) वर्षे दीर्घ रोगानन्तरं निर्वाण: जातमस्ति! अमेरिकायां (MIT) त: अध्ययनं कृत्वा नासासंस्थायामपि एते कार्यं कृतवन्त:। दांडी यात्राया: प्रसिद्धचित्रे गाँधी वर्याणां यष्टि: स्वीकृत्य य: बाल: दृश्यते स: एव कनु गाँधी अस्ति।
सम्पूर्ण देशे 1.14.332ग्रामेषु शौचालयव्यवस्था
सोमवासरे केन्द्रीय पेयजल एवञ्च स्वच्छता मंत्री नरेन्द्र सिंह महोदयेन अवादीत् सम्पूर्ण देशे 1.14.332ग्रामा: शौचालययुक्ता: जाता:। तै: उक्तं एतावता 61जनपदेषु 637 खण्डस्तरेषु(ब्लाक) 50.492 ग्राम सभासु पूर्ण रुपेण शौचालय निर्माणं जातमस्ति। लक्ष्यमस्ति यत् आगामी वर्षस्य मार्चमासं यावत् 175 जनपदेषु एतादृशी व्यवस्था भविता इति।
छठपूजात: गृहागमनवेलायां बिहार राज्ये 6 महिलाभ्यः रेलपथस्य तरणावसरे मृत्यु:
बिहारराज्यस्य दरभंगायां रामभद्रपुर रेलवे (लौहपथम्) स्थानके सोमवासरे 6 महिलाभ्यः लौहपथस्य तरणावसरे मृत्यु: जाताः। सूचनानुसारेण धूमिकाकारणेन न दृष्टम्। अन्यत्र मुजफ्फरपुर नगरे छठपूजायामेव नद्यां निमज्जनेन 2 बालकाभ्यां मृत्यु: जातः।