सैनिकानां कृते दीपावलि सन्देशा:
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषयिष्यति इति सन्देश् ट्टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानसचिव: नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम् आत्मबलं संवर्धयति इति प्रधानसचिव: सूचयति । मै गवण्मेन्ट डोट् इन , आकाशवाणि , दूरदर्शन् आदि माध्यमा:, सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: अवदत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यक्त्वा समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमुद्दिश्य भवत्ययं निर्देश:।
अद्य प्रथमं देशीय आयुर्वेददिनम्।
कोच्ची>आयुर्वेदाचार्यस्य धन्वन्तरिदेवस्य जन्मदिनमस्त्यद्य। इदं दिनम् अस्मात्संवत्सरादारभ्य देशीय अायुर्वददिनत्वेन आचरितुं केन्द्रसर्वकारेण निश्चितम्।
आयुर्वेदस्य प्रचारं प्रयोगं च संवर्धयितुमेव प्रतिसंवत्सरं धन्वन्तरिजयन्तिम् आयुर्वेददिनत्वेन आचर्यमाणस्य लक्ष्यम्। मधुमेहनियन्त्रणाय आयुर्वेद इत्यस्ति अस्य संवत्सरस्य सन्देशः।