कण्णूरे राजनैतिकनिहनानि न समाप्यते; एकोfपि हतः।
कोच्ची > केरळे कण्णूर् जनपदे नरहत्यापरम्परायाः शमनं नास्ति। सि पि एम् - भा ज पा दलयोः समवायरहितायां परस्परप्रतियोगितायां एकैकः अकालमृत्युं प्राप्नोति। सोमवासरे कूत्तुपरम्प् प्रदेशे सि पि एम् दलीयः आर् एस् एस् प्रवर्तकैः निहतः। तस्य प्रतीकाररूपेण अद्य भाजपा प्रवर्तकः सि पि एम् दलीयैः निहतः।