RN5 रेल्वे धनव्ययगणनपत्रिका अस्तंगता।
नवदहली > ९२ वर्षेभ्यः पूर्वमारब्धं रेल्वे आयव्ययपत्रिकावतरणं केन्द्रसर्वकारेण
समाप्यते। रेल्वे आयव्ययपत्रिका इतः आरभ्य सामूहिकाव्ययपत्रिकया सहैव
समर्प्यते। तदर्थं केन्द्रमन्त्रिसभया अनुमतिः दत्ता।
केन्द्र-आयव्ययपत्रिकावतरणं जनुवरिमासे कर्तुमपि धनमन्त्रालयेन
अभ्यर्थितम्। अनेन नूतनार्थिकवर्षस्य कृते आवश्यकं सज्जीकरणादिकं कर्तुं
समयः लप्स्यते इति धनमन्त्रालयः सूचयति। रेल्वे आयव्ययपत्रिकायाः
केन्द्र-आयव्ययपत्रिकया सह अवतरणेन धनव्ययोऽपि न्यूनीकर्तुं शक्यते। ९२
वर्षेभ्यः पूर्वम् आङ्गलभरणादिकारिभिः एव द्वयोरपि आयव्ययपत्रिकयोः
व्यतिरिक्तावतरणम् आरब्घम्।
RN6 क्रिकट्- एम्.एस्.के. प्रसाद: चयनसमिते: अध्यक्षः।
एम्.एस्.के प्रसादः |
RN
DM 01झारखंडः अौद्यौगिक विकासस्य केन्द्रम् अस्ति - मुख्यमन्त्री
रांची> झारखंडः अौद्यौगिक विकासस्य केंद्रः अस्ति, अतः अत्र निवेश्य करोतु इति झारखंडस्य मुख्यमन्त्री रघुवर दासः अकथयत् । सः मंगलवासरे मुंबईनगरे झारखंड मोमेंटम नामधेये एकस्मिन् सम्मेलने प्रांतस्य विकासाय स्वेच्छां स्थापितवान्। अष्ट अौद्यौगिक समूहाः झारखंडे कार्यं कर्तुम् इच्छन्ति । कार्यक्रमेषु रघुवर दासेन सह झारखंडमंत्री सीपी सिंहः नीरा यादवः च अपि अासीत्।