दशमकक्ष्यायां न पठितवती, किन्तु MIT मध्ये पठिष्यति।
मुम्बै>दशमकक्ष्यायां न पठितवती तथापि मालविका राजेश् जोशी मसाचुसेट्टस् इन्स्टिट्यूट् ओफ् टेक्नोलजि(MIT)मध्ये पठिष्यति। स्थानीय योग्यता नास्ति चेत् अपि सङ्गणक यन्त्रे प्रवर्तन-क्रमाणाम् आयोजने तस्याः कुशलता श्रद्धेया एव। सा एव पठनाय प्रवेशलब्धेः निदानम् । सप्तदशवयस्का मालविकायाः ओलिम्प्याट् पतकेन (IOI) पुरस्कृता इत्यनेन एव कलाशालायां प्रवेशनम्। द्वादश कक्षायाः विजयं विना सामान्येन यत्रकुत्रापि पठनाय अनुज्ञा न लभते।सप्तमकक्ष्यानन्तरम् अध्ययनम् नास्ति इत्यनेन सा उपरिपठनात् निवारिता। अधुना बालिका बालकाः सङ्गणकयन्त्रं क्रीडायै उपयुज्यते । किन्तु एषा सङ्गणक-यन्त्रमुपयुज्य नूतनानि प्रवर्तन-कार्यक्रमाणि निर्मितानि च
संस्कृतकवयः न दुर्लभाः
वक्ता श्रोता च न दुर्लभा
