पण्यवस्तु-सेवनकरविधेयकस्य राष्ट्रपतेः अङ्गीकारः।
नवदिल्ली - स्वतन्त्रभारतस्य बृहत्तमकरपरिष्करणार्थं केन्द्रसर्वकारेण आनीतं पण्यवस्तु - सेवनकरस्य (जि एस् टि) विधेयकस्य राष्ट्रपतेः अङ्गीकारः लब्धः।शासनघटना संशोधनदेयकमित्यतः राज्येषु अर्धाधिकानां संख्यकानाम् अंगीकारः आवश्यकः आसीत्। १७ राज्यानाम् अनुमतिः लब्धा!