नियन्त्रणरेखाम् अतिक्रम्य भारतस्य आक्रमणम्; ३८ भीकराः मृत्युमुपगताः।
डि जि एम् ओ रणवीरसिंहः वार्ता-सम्मेलने |
सूक्ष्मासूत्रणेन एव आसीत् सैन्यस्य प्रक्रिया। नियन्त्रणरेखायाः अन्तर्भागे किलोमीट्टर् त्रयं यावत् गत्वा आसीत् सैन्यस्य इयं प्रक्रिया। इमम् अधिकृत्य राष्ट्रपतिः प्रणाब् मुखर्जी, उपराष्ट्रपति: हामिद् अन्सारिः, भूतपूर्वप्रधानमन्त्री मनमोहनसिंहः, जम्मू-कश्मीरस्य मुख्यमन्त्री मेहबूबा मुफ्तिः प्रभृतयः ज्ञातवन्तः आसन्।
उद्योगमण्डलात् रूक्षगन्धः - छात्राः परिक्लान्ताः।
कोच्ची> केरळे एरणाकुलं जनपदे अम्पलमुकल् उद्योगमण्डले रूक्षगन्धव्यापनेन समीपस्थे अम्पलमुकल् सर्वकारीयविद्यालये छात्रसहितानाम् अनेकेषां शारीरिकास्वास्थ्यमजायत। त्रिंशत् छात्राः पञ्च अध्यापकाश्च आतुरालयं प्रवेशिताः। द्वौ छात्रौ अत्यासन्नविभागे स्तः।
ह्यः प्रभाते उपनववादने एव परिभ्रान्तजनका इयं दुर्घटना संवृत्ता। बि पि सि एल् कोच्ची रिफैनरी व्यवसायशालायाः फाक्ट् कोच्ची विभागस्य च मध्ये अयं विद्यालयः वर्तते। अन्तरिक्षे रूक्षगन्धे व्यापृते विद्यार्थिनः अवशाः बभूवुः। ततः ते आम्बुलन्सादिभिः वाहनैः तृप्पूणित्तुरायां आतुरालयं प्रवेशिताः।