प्रोफ. जि.गङ्गाधरन् नायर् आद्रियते।
कोच्ची> संस्कृतभाषापण्डितः विश्वसंस्कृतप्रतिष्ठानस्य भूतपूर्वाध्यक्षः प्रोफ. जि. गङ्गाधरन् नायर् वर्याय शिष्यसमूहस्य संस्कृतानुरागिणां च "सप्ततिप्रणामः"।कालटी संस्कृतविश्वविद्यालयस्य सिन्डिकेट् सदस्यः, सम्प्रतिवार्तायाः मुख्योपदेष्टारेषु अन्यतमः गङ्गाधरमहोदयः सप्ततिं प्रविशन्नस्ति! ओक्टोबर् द्वितीये दिने तृप्पूणित्तुरा लायं कूत्तम्पलाड्कणे विश्वसंस्कृतप्रतिष्ठानस्य तथा अमृतभारति विद्यापीठस्य च नेतृत्वे संस्कृताध्यापक-विद्यार्थिसंगमः भविष्यति। सांस्कृतिककार्यक्रमाश्च भविष्यन्ति।एतदर्थं वाष़ूर् आश्रममठाधिपतिनः प्रज्ञानन्दतीर्थपादस्वामिनः मुख्यरक्षाकर्तृत्वे १०१ संख्यात्मकः स्वागतसङ्घः रूपवत्कृतः।
तमिष् राज्यजनानां संरक्षणमुद्दिश्य कर्णाटक- मुख्यमन्त्रिणे जयललितायाः लेखम्।
