भारत-न्यूसिलान्ट् क्रिकट् निकषस्पर्धा अद्य आरभते।
काण्पूरम्> भारत-न्यूसिलान्टराष्ट्रयोः अस्य कालकृतस्य प्रथमक्रिकट् निकषस्पर्धा काण्पुरे अद्य आरभते। भारतस्य पञ्चशततमा निकषस्पर्धा इति विशेषः अप्यस्ति।अत एव सच्चिन् टेण्टुल्करः, वेङ् सर्कारः, मुहम्मद् अस्हरुद्दीनः इत्यादीनांक्रिकट् प्रतिभाशालिनां सान्निध्यमपि प्रतीक्षते।
५०० तमां इमां स्पर्धां भारते अविस्मरणीयां कर्तुं नायकस्य विराट् कोलिनः संघः सिद्धताम् आप्तः। किन्तु भारतस्य प्रमुखक्रीडकेषु शीघ्रकन्दुकक्षेपकः (fast bowler) इशान्त् शर्मा चिक्कुन् गुनिया रोगेण पीडितः इत्यतः प्रथमस्पर्धायां न क्रीडिष्यति।