ई एस् ऐ आर्थिकायसीमा ₹ २१,०००!
नवदिल्ली > राष्ट्रस्थेभ्यः कर्मकरेभ्यः तेषां परिवारेभ्यश्च ई एस् ऐ आनुकूल्यस्य धनोदयसीमा प्रतिमासं एकविंशतिसहस्रं रूप्यकाणीति निश्चितम्! इदानीमेषा पञ्चदशसहस्रं रूप्यकाणि भवति अयं निश्चयः पञ्चाशत् लक्षं कर्मकरेभ्यः प्रयोजकीभविष्यति! अनेन सह ई एस् ऐ भिषग्वराणां निवृत्तिवयः ६० तः ६५ इति वर्धयितुमपि निश्चितम्!