मुम्बय्यामपि भीकरसान्निध्यम्?
मुम्बई > नगरात् सप्तचत्वारिंशत् कि.मी दूरस्थे उरान् प्रदेशे भीकराः प्रत्यक्षीभूताः इति वृत्तान्तमनुसृत्य मुम्बय्यामपि अतिजाग्रतानिर्देशः।पत्तान् नामक पाकिस्तानीयवस्त्राणि धृतवन्तः आयुधधारिणः केचन पुरुषाः दृष्टा इति उरान् एजूकेशन् सोसाइटी विद्यालयस्य छात्राः स्वीयाध्यापकान् न्यवेदयन्। अध्यापकेभ्यः वृत्तान्तं ज्ञातवन्तः आरक्षकाधिकारिणः नौसेनया स्थलसेनया तीररक्षासेनया च साकम् अन्वेषणम् आरब्धवन्तः। सामान्यजनेभ्यः जाग्रतानिर्देशः कृतः च।