स्वातन्त्र्यदिने श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका।


रियो ओलिम्पिक्स्- भारतस्य कृते जयपराजययोः दिनम्।
रियो
डी जनीरो > रियो ओलिम्पिक्स् मध्ये षष्ठं दिनं भारतस्य कृते जयपराजययोः
दिनम्। बाड्मिण्डन् मध्ये पि वि सिन्धू स्वप्रथमस्पर्धायां जयं
प्राप्तवती। किन्तु पुरुषाणां बाड्मिण्डन् द्वन्द्वस्पर्धायां भारतसङ्घः
पराजितः। पुरुष-वनिताटेन्नीस् स्पर्धायां बोप्पण्णा-सानिया सख्येन विजयः
प्राप्तः।धनुर्विद्यास्पर्धायां दीपिका कुमारी, बोम्बैला देवी च
निष्कासिते। मुष्टियुद्धस्पर्धायां भारतस्य पराजयः एव। होलण्ट्सङ्घेन सह
होकी स्पर्धायामपि भारतसङ्घः पराजितः।
उत्तरप्रदेशस्य गाजियाबादजनपदे गतरात्रौ भाजपानेतुः ब्रजपालतेवतियावर्यस्योपरि गोलिकाप्रहारः
गोलिकाप्रहारेण
ब्रजपालः तस्य सुरक्षाकर्मी च व्रणितौ, उभौ गभीरस्थितिमवाप्तौ |
प्रकरणेsस्मिन् सप्तजनाः व्रणिताः ३ इति संसूच्यते| सम्प्रति नोएडायां फोर्टिस
चिकित्सालये उभाभ्यामुपचारः सम्प्रचलति |ध्यातव्यमिदं यत् ब्रजपाल तेवतिया भारतीयजनतापार्टीतिदलस्य वरिष्ठ नेता वर्तते , असौ 2012 तमे वर्षे मुरादनगरविधानसभातः निर्वाचने भाजपायाः प्रातिनिध्यं कृतवान् |
कस्तूरिरङ्गन् रेखाः - आशङ्कां निवारयिष्यतीति प्रधानमन्त्री।
नवदहली
> कस्तूरिरङ्गन् रेखामधिकृत्य जायमानाः आशङ्काः निवारयितुम् आवश्यकः
व्यवहारः स्वीक्रियते इति प्रधानमन्त्री। केरलीयान् क्रैस्तवसभानेतृन्
प्रत्येव प्रधानमन्त्रिणा एवं सूचितम्। न्यायालयपक्षतः जायमानः विरोधः तथा
सन्नद्धसङ्घानां निस्सहकरणमनोभावः च समस्यापरिहारचर्चायै विघातः भवतीति
प्रधानमन्त्रिणा उक्तम्। पश्चिमपर्वतततिसानुभप्रदेशानां संरक्षणाय
समर्पितायाः कस्तूरिरङ्गन् रेखायाः उपरि उन्नीताः आशङ्काः परिहरणीयाः इति
निवेदनं समर्प्य केरलीयाः क्रैस्तवसभानेतारः राज्य-लोकसभयोः केरलीयाः
सामाजिकाः च प्रधानमन्त्रिणा सह चर्चाम् अकुर्वन्।