संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते -श्रीनिवासवरखेडि

सौराष्ट्रनर्मदा-अवतरणसेचनयोजना
प्रधानमंत्री अद्य राजकोटे सौनी इति सौराष्ट्रनर्मदा-अवतरणसेचनयोजनाया प्रथमचरणस्य उद्घाटनं करिष्यति | अस्याः योजनायाः अन्तर्गतं सौराष्ट्रस्य जलाशयाः नर्मदायाः जलेन प्रपूर्यिष्यन्ते।
अमेरिकाभारतयोः लॉजिस्टिक्स इति संभारतन्त्रसन्धिः
भारत अमेरिका देशयोः मिथः परस्परं सैन्यस्थलानां उपयोगार्थं लॉजिस्टिक्स इति संभारतन्त्रविषयकं सैन्यसन्धिः हस्ताक्षरैः प्रमाणीकृतः | येन देशद्वयाभ्यां परस्परं जल, थल, वायु सैन्यस्थलानां विकासः, विनिर्माणं च समेत्य विविध गतिविधीनां आदान प्रदानं संभविष्यति |वार्ताः
* केन्द्रीयगृहमंत्रिणः राजनाथसिंहस्य नेतृत्वे सर्वदलीयं शिष्टमण्डलं सितम्बरमासस्य चतुर्थे दिने जम्मूकाश्मीरं प्रयास्यति । अद्य काश्मीरोपत्यकायां बहुत्र निषेधाज्ञा इति संचाररोधादेशः निराकृतः।
* भारत- म्यांमाभ्यां नवीकरणीयोर्जा पारम्परिकौषधव्यवस्थां समेत्य सन्धिचतुष्टकं हस्ताक्षरैः प्रमाणितम् ।
* उच्चतमन्यायालयेन बुलंदशहरदुष्कृति प्रकरणस्य राज्यतो बहिर्वादश्रवणविषयिन्यां याचिकाविषये उत्तरप्रदेशप्रशासनाय अथ राज्यमंत्रिणे आजमखानाय अध्यर्थनापत्रं प्रख्यापितम् ।
* राष्ट्रपतिना पी.वी.सिंधु साक्षीमलिकः दीपाकर्माकरः जीतूरायश्च राजीवगांधीखेलरत्न इति क्रीडापुरस्कारेण बहुमानिताः ।
* यमन राजधान्यां अदननगर्यां सैन्य शिविरे आत्मघात्याक्रमणे बम्ब विस्फोटेन न्यूनान्न्यूनं षष्टि जनाः कालकवलिताः संसूच्यन्ते ।