गान्धिवधः- उच्चतरन्यायालये राहुल् गान्धिनः विशदीकरणम्।
नवदहली > गान्धिवधे राष्ट्रिय स्वयंसेवकसङ्घस्य योगदानमस्तीति न उद्दिष्टमिति विशदीकरणेन सह राहुल्गान्धी। २०१४ तमस्य निर्वाचनसम्बन्धे एकस्मिन् योगे महात्मागान्धिनः वधे राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमस्तीति राहुलेन उक्तमासीत्। परामर्शोऽयं विवादः अभवत्। एतत्सम्बन्ध्य राजेष् महादेवकुन्दे नामकेन युवकेन राहुलस्योपरि महाराष्ट्रायां न्यायालये अपकीर्तिव्यवहारः समर्पितः आसीत्। एतस्य विशदीकरणरूपेण उच्चतरन्यायालये समर्पितायां सत्यप्रस्तावनायां, राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमिति न उक्तं, किन्तु तत्सम्बन्धाः केचन जनाः इत्येव मया उद्दिष्टाः इति सः विशदीकरणम् अयच्छत्। राहुलस्य कृते प्रमुखः अभिभाषकः कपिल् सिबलः न्यायालये उपस्थितिम् अकरोत्।
जयललितायाः उपरि उच्चतरन्यायालयस्य रूक्षविमर्शः।

शब्दातिवेगक्षेपणायुधं युद्धविमाने योजयित्वा भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः।
जोध्पूर् > शब्दादिजवं क्षेपणास्त्रं ब्रह्मोस्, व्योमसेनायाः 'सुखोय्' युद्धविमाने संयुज्य परीक्षणं कर्तुं भारतम्। व्योमसेनया आगस्त् २४ तः २६ पर्यन्तं जयसालमीरस्य पोखराने क्षेपणायुधपरीक्षणं क्रियते। रष्यया निर्मितं भवति 'सुखोय्' युद्धविमानम्। व्योमसेनायाः औद्योगिकं ब्रह्मोस् विक्षेपणं नवंबर् मासे वा डिसम्बर् मासे वा भविष्यति। प्रतिरोधमण्डले भारतस्य नूतनप्रगतिं अन्यानि राष्ट्राणि अद्भुतेनैव निरीक्षन्ते।
गृहमन्त्रिणः जम्मूकाश्मीरयात्रा
गृहमन्त्री राजनाथसिंहः हिंसाप्रभावित काश्मीरोपत्यकायां सुरक्षाव्यवस्थायाः समीक्षां विधातुं द्विदिवसीय काश्मीरयात्रां प्रतिष्ठते | अत्रान्तरे राजनाथसिंहः हुर्रियत नेतृभिः साकं सम्भाषणप्रयासं करिष्यति | इतः प्राक् प्रधानमन्त्रिणा नरेंद्रमोदिना विगतदिवसेषु कश्मीरे उमर अब्दुल्ला इत्येतस्य प्रतिनिधित्वे विरोधिदलानां प्रतिनिधिमंडलेन सहोपवेशनं समाचरितम् |
कांस्यपदकविजेत्री देशे प्रत्यावर्तिता
रियो ओलंपिक प्रतिस्पर्धायां कांस्यपदकविजेत्रीमल्लयुद्ध -कुशला साक्षिमलिकस्य देशे प्रत्यावर्तनानन्तरं देहल्याः वायुपत्तने भव्यं स्वागतं सञ्जातम् | स्रोतोभिः परिज्ञायते यत् तस्याः स्वागताय हरियाणाप्रशासनस्य पञ्चमन्त्रिणः वायुपत्तने समुपस्थिताः आसन् | साक्षी प्रोक्तवती यदहं राष्ट्राय सर्वश्रेष्ठप्रदर्शनं कर्तुमिच्छति स्म:|ओलंपिकस्पर्धानन्तरं जीवनं परिवर्तितम् | प्रसन्ना अस्मि यत् देशस्य परिवारस्य च गौरववर्धापने समर्था सम्प्रवृत्ता |
राजनाथसिंहः जम्मू-काश्मीरे।
श्रीनगर् > जम्मू-काश्मीरस्य सङ्घर्षावस्थां परिशोधयितुं केन्द्र-आभ्यन्तरसचिवः राजनाथसिंहः अद्य काश्मीरं प्रापयत्। काश्मीरस्य समस्याः परिहर्तुं राष्ट्रियचर्चा आवश्यकी इति प्रतिपक्षदलेन कृतायां चर्चायां प्रधानमन्त्रिणा उक्तमासीत्। एतदनुसृत्यैव आभ्यन्तरसचिवस्य काश्मीरसन्दर्शनम्। बुधवासरे,गुरुवासरे च राजनाथसिंहेनकाश्मीरस्य विविधैः राष्ट्रियनेतृभिः सह चर्चा क्रियते। किन्तु अद्य राजनाथसिंहस्य .काश्मीरसन्दर्शनात् पूर्वं सञ्जाते सङ्घर्षे एकः युवकः मृतः। तथा च प्रतिषेधानुयायिभिः सुरक्षासेनया सह जातेषु सङ्घर्षेषु मरणसंख्या ६८ अभवत्।