संस्कृतदिने अध्यापकानां स्पर्धा
अनन्तपुरी >संस्कृत-दिनाचरणस्य अङ्गतया केरळराज्यस्य शैक्षिक विभागेन अध्यापकानां कृते चत्वारः स्पर्धा : आयोजिता:। 1कथा रचनायां विषयः प्रत्यागमनम् । २ कवितारचनायां विषय: निरालंबा । 3 समस्या पूरण विषयः पिबाम संस्कारसुधारसं सदा । 4 उपन्यासरचनायां विषय : शिक्षाक्षेत्रे नव माध्यमानां प्रसरः । स्पर्धासु ये भागं स्वीकर्तु मिच्छन्ति ते २३ तमे दिनांके सायं पञ्चवादनात् पूर्वं रचनाः तिरूवनन्तपुर्यं DPI कार्यालये पाप्तव्याः॥
संस्कृतसप्ताहाचरणसम्बन्धाः कार्यक्रमाः जनं टीवी मध्ये भविष्यति।
सायङ्काले 5.15 तः 5.30/5.45 पर्यन्तम्।*15.08.2016 - एकपात्राभिनय: *16.08.2016 - काव्यालापनम् *17.08.2016 - संवाद: *18.08.2016 - ह्रस्वचलच्चित्रम् - अन्नदाता *19.08.2016 - बालनिकुञ्जम् *20.08.2016 - डा. पी नन्दकुमारमहोदयेन सह अभिमुखम् *21.08.2016 - सांस्कृतिककार्यक्रमः। प्रतिदिनं 5 वादनतः 5.15 वादनपर्यन्तं संस्कृतवार्ता (वार्तासंस्कृतम्) च ।