भारतस्य आयुधशेखरेषु वरुणास्त्रमपि।
नवदहली > भारतेन तद्देशीयतया निर्मितः भारयुक्तः च टोर्पिडो वरुणास्त्रं नाविकसेनायाः आयुधशेखरेषु स्थानं प्रापयत्। बुधवासरे दहल्यां प्रतिरोधसचिवस्य मनोहर् परीकरस्य आध्यक्षे नाविकसेनाया: अध्यक्षस्य सुनिल् लाम्बस्य अन्येषां प्रमुखाणां च सान्निध्ये संवृत्ते योगे एव वरुणास्त्रस्य समर्पणमभवत्।
स्ववर्गानुरागिण: तृतीयलिङ्गविभागे नान्तर्भवन्ति- उच्चतरन्यायालयः।
नवदहली> स्ववर्गानुरागिण: तथा उभयलैङ्गिकानुरागिणः च तृतीयलिङ्गविभागे नान्तर्भवन्तीति उच्चतरन्यायालयः। भिन्नलैङ्गिकशेषियुक्ताः एव तृतीयलिङ्गविभागे अन्तर्भवन्तीति परमाध्यक्षस्य टि एस् ठाकुरस्य न्यायस्थानेन विशदीकृतम्। २०१४ तमस्य उच्चतरन्यायालयस्य विधेः व्यक्ततां सम्पादयितुं केन्द्रसर्वकारेण समर्पितं निवेदनमनुसृत्यैव नूतनविशदीकरणम्।स्ववर्गरतिम् अपराधत्वेन विशदीकुर्वन्तं भारतीयशिक्षानियमस्थं ३७७ तमं भागं दहली उच्चतरन्यायालयेन परिवर्तयति स्म।तस्य पुनःपरिशोधनानिवेदनमपि परिगणनायां वर्तते।
ब्रिट्टीष् प्रधानमन्त्रिपदाय पञ्च प्रमुखाः पट्टिकायाम्।
लण्टन् > स्थानं त्याज्यमानस्य डेविड्कामरूणस्य अनुयायी भवितुं ५ प्रमुखाः पट्टिकायाम् अन्तर्भूताः। किन्तु सर्वैः प्रतीक्षाम् अर्पितेन लण्टन् नगराध्यक्षेण बोरिस् जोण्सनेन मत्सररङ्गात् प्रतिनिवृत्तिः प्रख्यापिता च। एतस्मिन्नवसरे कण्सर्वेटीव् दलस्य प्रमुखाः नेतारः मैकिल् गोव्, आभ्यन्तरसचिवा तेरेसा मेय् , स्टीफन् क्राब् , आन्ट्रिया लीट्सं, प्रतिरोधकार्यदर्शी लियां फोक्स् च मत्सररङ्गे सजीवाः सन्तिI ब्रिट्टणस्य यूरोप्यन् सङ्घात् प्रतिनिवृत्तये अत्यधिकम् उद्घोषितः आसीत् बोरिस् जोण्सन्।
विम्बिल्डन् - जोकोविच्, फेडरर् च तृतीयपादं प्रविष्टौ।

निधिभण्डारः शून्यः; राज्यम् आर्थिकप्रतिसन्धौ - केरळवित्तमन्त्री।
अनन्तपुरी - केरळम् अतिरूक्षे आर्थिकप्रतिसन्धौ पतदस्तीति वित्तमन्त्रिणा डो. तोमस् ऐसक्केन विधानसभायाम् अवतारितं धवलपत्रम्। सर्वकारेण झटित्येव परिहर्तव्या ऋणबाध्यता दशसहस्रं कोटिरूप्यकाणामस्ति। एवं स्थिते गतार्थिकवर्षान्त्ये १६४१ कोटिरूप्यकाणाम् अधिकप्रस्तावः कृत्रिमत्वेन आविष्कृत इति वित्तमन्त्रिणा प्रस्तूयते।
धवलपत्रं न, कृष्णपत्रमिति माणिः; अकर्मण्यतायाः प्रतिभूतिग्रहणमिति विपक्षनेता।
अनन्तपुरी -केरळधनमन्त्रिणा डो. तोमस् ऐसकेन विधानसभायाम् अवतारितं धवलपत्रं वास्तवविरुद्धमिति विपक्षनेतारः। यू डि एफ् सर्वकारेण आविष्कृतानां विकसनोन्मुखप्रवर्तनानां भूतकारुण्यपद्धतीनां च अवमत्यर्थं कुसृष्टं कृष्णपत्रमेतदिति भूतपूर्ववित्तमन्त्री के एम् माणिः आक्षिपति स्म।आगामीसंवत्सरेषु एल् डि एफ् सर्वकारः किमपि न करिष्यति इत्यस्य अकर्मण्यताप्रख्यापनस्य नान्दिः एतदिति विपक्षनेता रमेश् चेन्नित्तला उक्तवान्।
ऋणं कृत्वा आविष्कृतानां विकसनपद्धतीनां गुणफलं तदनुसारं आयवृद्धिश्च भविष्ये एव अनुभोक्तुं शक्यतेति तेनोक्तम्।
राष्ट्रे वर्गीयकलापाय ऐसिस् पद्धतिः इति सूचना।
हैदराबाद् > गतदिने हैदराबाद् मध्ये आरक्षकैः बन्धितः ऐसिस् सङ्घः राष्ट्रे वर्गीयविद्देषम् उत्पाद्य आक्रमणं कर्तुं पद्धतिः पर्यालोचिता इति सूचनाः। जनवासकेन्द्रेषु विस्फोटनेन तथा आराधनाकेन्द्रेषु वर्गीयविद्देषम् जन्यमानानि कुत्सितप्रवर्तनानि च सङघेन उद्दिष्टानि। तदर्थं भाग्यलक्ष्मीमन्दिरे गोमांसं निक्षिप्य हिन्दू-मुस्लीं विरोधमुत्पाद्य आक्रमणाय सङ्घस्य पद्धतिरासीदिति आरक्षकवृन्दं सूचयति। अत एव राष्ट्रे जाग्रतया वर्तितुं सर्वेभ्यः निर्देशः दत्तः वर्तते।
मध्यप्रदेशस्य आभ्यन्तरमन्त्रिणा स्वस्थानं त्यक्तम्।
