तेरेसा मेय् ब्रिट्टनस्य प्रधानमन्त्रिणी।

महाराष्ट्रायाम् अतिवृष्टिः - सर्वनाशः; ४ मरणानि।
नासिक् > उत्तरमहाराष्ट्रायां नासिक् नन्दूर् बार् जनपदयोः त्रिदिनं यावत् अनुसूतमानया अतिवृष्ट्यागृहभग्नेन च चत्वारः जनाः मृताः। १७९ भवनानि भग्नानि। उपशतं धेनुमृगादयः जलप्रवाहे विनष्टाः।
श्रीजेषः भारतहोक्कीनायकः।
नवदिल्ली> रियो ओलिम्पिक्स् महामहे भारतस्य होक्कीदलं केरलीयतारः पि आर् श्रीजेषः नेष्यति। ओलिम्पिक्स् होक्कीदलं नीयमानः प्रथमः केरलीयः इति बहुमतिरपि श्रीजेषेण करस्थीकृता। २०१४ तमे वर्षे इञ्चियोण् एष्यन् कायिकमेलायां सुवर्णपदकं सम्पादयित्वावा एव भारतम् ओलिम्पिक्स् योग्यतां प्राप्तम्। तदा पाकिस्तानं श्रीजेषस्य प्रभावे पराजित्य सुवर्णं प्राप्तम्। समीपकाले लण्टने सम्पन्ने चाम्प्यन्स् चषकस्पर्धासु भारतं प्रति जितचषकम् आनीतवानसौ । ऐदंप्राथम्येन अन्तिमचरणं प्राप्तं भारतं रजतपदकं स्वायत्तीकृतवच्च।