दक्षिणचीनासमुद्रे चीनायाः अधिकारो नास्तीति यू एन् न्यायालयः।
हेग् - दक्षिणचीनासमुद्रमधिकृत्य फिलिप्पैन्स् राष्ट्रं प्रति सीमाविवादे चीनादेशस्य प्रत्याघातः। तर्कमण्डले चीनायाः अधिकारः नास्तीति ऐक्यराष्ट्रसभान्यायालयस्य प्रमुख विधिः।किन्तु हेगस्थान्ताराष्ट्रन्यायालयस्य अयं विधिः न मान्यतेति प्रस्तुतसमुद्रमण्डलस्य अधिकारीवयमेव, एतस्मिन् विषये न कोऽपि संदेहः इत्येव चीनादेशस्य दृढवादः।