अष्टादशि नाम योजनायाः आवेदनतिथिः अवसितः। केरलस्य कृते योजनन् प्रेषयितुं सर्वकारीय कार्यालये कोपि नास्ति।
नवदिल्ली>राष्ट्रिय संस्कृत संस्थानस्य 'अष्टादशि' नामिकायाः योजनायाः आवेदन पत्रस्वीकारस्य अन्तिमतिथिः ह्यः अवसितः। संस्कृत-भाषायाः प्रचुर प्रचारमुद्दिश्य आयोजिता इयं योजना। संस्कृत भाषायाः प्रचाराय क्रियमाणानां प्रवर्तनानां कृते आर्धिकसाह्यः अनया योजनया क्रियते । भिन्न भिन्न राज्येषु संस्कृत प्रवर्तकाः स्वस्व योजनानि राज्य-सर्वकारद्वारा प्रेषिताः। किन्तु केरलस्य कृते पद्धतिविवरणं प्रेषयितुं सर्वकारीय कार्यालये तत्पराः उद्योगिनः नास्ति। यथा कालं योजनां प्रेषयितुम् उद्योगी जनानां वैमुख्यः एव । सी पी एम् दलेन केरले शासनं प्रचाल्यते। क्षेत्रीय शैक्षिक अधिकारिभिः अङ्गीकृतसंस्थायाः आवेदनानि स्वीकृत्य प्रेषणीयानि किन्तु एरणाकुळम् जनपथस्य प्रन्तीय शैक्षिकाधिकारिणा स्वस्य कर्तव्यनिर्वहणे तत्परा नासीत्।
संस्कृतपत्रकारितासम्मेलनमायोजितम्

लखनौ>उत्तरप्रदेशसंस्कृतसंस्थाने आयोजितायां द्विदिवसीयराष्ट्रियसंगोष्ठ्यामद्य द्वितीयदिवसे उत्तराञ्चलसंस्कृत अकादम्याः पूर्वसचिवानां वाक्संस्कृतपाक्षिकसंस्कृतपत्रिकासम्पादकानां डॉ.बुद्धदेवशर्ममहोदयानां आध्यक्ष्ये देशस्य विभिन्नभागेभ्यः समागतैः संस्कृतपत्रपत्रिकाणां सम्पादकैः संस्कृतपत्रिकायाः विविधपक्षेषु समस्यासु च विशदा चर्चा विहिता। समापनसत्रे संस्कृतसंस्थानस्य अध्यक्षाभिः डॉ.साधनामिश्रमहोदयाभिः तथा च समापनसमारोहस्य मुख्यातिथिभिः डॉ. बलदेवानन्दसागरमहोदयैः संस्कृतपत्रिकाप्रसारार्थं सर्वैरेकीभूय कार्यकरणाय सर्वे प्रेरिताः। एवमेव वाराणसीतः सम्प्राप्ताः चातुर्वेदसंस्कृतप्रचारसंस्थानस्य महामन्त्रिणः डॉ.चन्द्रकान्तशुक्लमहोदयैः संस्कृतस्य दशा एवं दिशा इति विषयमवलम्ब्य स्वशोधपत्रिका प्रस्तुता। एवमेव डॉ. जगदीशशर्मा मथुरातः डॉ.जीवनशर्मा देहलीतः, डॉ. जगदानन्दझा उत्तरप्रदेशसंस्कृतसंस्थानतः, डॉ. गीता शुक्ला लखीमपुरखीरीतः, गवीशद्विवेदी हरियाणातः, श्रीकेशवपोख्रेलः गाण्डीवं संस्कृतसाप्ताहिकम् वाराणसीतः, एवमन्यैरपि बहुभिः पत्रसम्पादकैः विद्वद्भिश्च संस्कृतपत्रकारिताविषये स्वस्वविचाराः शोधलेखाश्च प्रस्तुताः।