बहरिन् मध्ये संस्कृत-आन्दोलनम्
शिबिर-गणेषु एकम् |
साक्कीर् नायिकम् अधिकृत्य अन्वेषणावेदनम् आगामी सप्ताहे।
मुम्बई > इस्लामपण्डितं साक्कीर् नायिकं विरुध्य आरोपणानि अधिकृत्य मुम्बई आरक्षकदलस्य सविशेषविभागः आगामी सप्ताहे आवेदनपत्रं समर्पयिष्यति। प्रस्तुतावेदनस्य आधारे तं विरुद्ध्य व्यवहारसंबन्धः निर्णयः भविष्यति।बांग्लादेशस्य धाक्कायां भीकराक्रमणविषये गृहीतेष्वेकः साक्किर् नायिक्कस्य प्रभाषणेनैव स्वयम् ऐ एस् प्रति आकृष्ट इति उक्तमासीत्। तदनुसृत्य साक्किर् नायिकं तथा इस्लामिक् रिसर्च् फौण्टेषन् इति संस्थां च विरुघ्य अन्वेषणाय मुख्यमन्त्री देवेन्द्र फड्नविसः आदेशं दत्तवान्।
किन्तु केरलानाम् आरक्षकसंघस्य साहाय्येन महाराष्ट्र भीकरविरुद्धसंघः साक्किरस्य द्वौ अनुयायिनौ नविमुम्बईतः कल्याण् तः च गृहीतौ। एताभ्यां लभ्यमानानां प्रमाणानाम् आधारे एव आवेदनपत्रं सज्जीकुर्यादिति वरिष्ठेन आरक्षकोद्योगस्थेन व्यक्तीकृतम्।