भारतटान्सानियाभ्यां सन्धिपंचकं कृतम्।
दारेस्सलां> प्रधानमन्त्रिणः नरेन्द्रमोदिनः टान्सानियासन्दर्शनवेलायां राष्ट्रद्वयेन पंच सन्धिपत्राणि हस्ताक्षरीकृतानि। जलवितरणं, जलविभवप्रबन्धः विकासश्च, कर्मपरिशीलनं, नयतन्त्रं, उद्योगविकासः इत्येतेषु विषयेषु एव सहकरणं कांक्षितम्।वार्तामुक्तकानि
यूरो चषकः फ्रान्स् दलं पराजित्य पोर्चुगल् दलेन करस्थीकृतः।
सुडान् देशे सैनिकानां विमतभटानां च मिथः संघर्षे272 जनाः हताः।
केरलतः अप्रत्यक्षेषु नवदशजनेषु केचन ऐ एस् शिबिरं प्राप्तवन्तः इति केन्द्ररहस्यान्वेषणसंस्थया स्थिरीकृतम्।