जिषाघातकः न्यायकाराधीने।
कोच्ची - गतदिने आरक्षकैः गृहीतः जिषायाः घातकः अमियूर् उल् इस्लामः न्यायालयम् आनीतः। सः न्यायाधीशाधीनत्वे १४ वासराणि कारागृहे बद्धः।
सुदृढे रक्षावलये एव सः न्यायालयम् आनीतः। तं द्रष्टुं महान् जनसम्मर्दः आसीदपि शिरस्त्राणं धारयित्वा एव तमपराधिनं न्यायालयं प्रविष्टवन्तः।