अध्ययनवत्सरं स्वागतं कर्तुं सर्वशिक्षा अभियानस्य नूतनपद्धत्यः।

३१ तमदिनाङ्के सर्वे अध्यापकाः विद्यालयमागत्य आगामिनः अध्ययनवर्षस्य प्रवर्तनानाम् आसूत्रणं सूक्ष्मतले करणीयम्।
जूण् जूलाय् आगस्ट् मासानां प्रवर्तनदिनदर्शिका रूपवत्करणीया।
विद्यालयप्रवेशनोत्सवः सम्यग्रीत्या आघोषयिष्यते। प्रथमकक्ष्याप्रवेशाय आगम्यमानेभ्यः छात्रेभ्यः प्रवेशनस्यूतवितरणं करणीयम्।
प्रचण्डवातः - मृतिः २४
धाक्का > बंगलदेश राष्ट्रस्य दक्षिणतीरेषु रोवोनु प्रचण्डवातः वाति स्म। तस्मिन् दुर्घटनायां मृतानां संख्या चर्तुर्विंशाति (२४)अभवत्। शताधिकाः व्रणिताः। ८८ किलोमीट्टर् वेगेन आगतः प्रचण्डवातः बरिसाल् - चिट्टगोङ् मण्डलेषु नाशम् अकरोत्। पञ्चलक्षसंख्यकान् जनान् सुरक्षित स्थानं प्रेषितः। वृक्षाः सौधाः च अधः पतिताः। चिट्ट गोङ्स्य विमान निलयः स्थगितः। दुर्घटना मधिकृत्य सूचना पूर्वमेव प्रसारिता इत्यनेन मृतानां संख्या न वर्धिता्।
चेन्नै नगरे अत्युष्णः - जीवितं दुस्सहम्।
गतदिने नुङ्कम्पाक्कं प्रविश्य़ायां ४०.४ डिग्री ताप मीनम्पाक्के ४०.५ डिग्रीमित तापश्च अनुभूयते स्म।