गोध्राघटनायाः मुख्यसूत्रधारः गृहीतः।
गोध्रा रेल् निस्थानस्य समीपं सबर्मति एक्प्रस् रेल्यानस्य एस्-६ वाहकं मृत्तैलमुपयुज्य आक्रमणकारिणः प्रज्वालयन्तः आसन्। एतदुपकाराय मृत्तैलादिकस्य वाहक आसीत् फारूख् भानः इति ए टि एस् अधिकारिणः निगमनम्। किञ्च रेल्यानप्रज्वालनाय एषः जनसञ्चयं प्रेरयति स्म।