लिबिया देशात् ९ परिवाराः प्रत्यागतवन्तः।
१८ संख्याकाः केरलीयाः कोच्ची अन्ताराष्ट्रविमाननिलये ११संख्याकाः तमिल् देशीयाः चेन्नै विमाननिलये च प्राप्तवन्तः।
लिबियादेशे ट्रिप्पोलिमध्ये साविया आतुरालये कर्मकराः ते आभ्यन्तर -संधर्षे पृथक्भूताः भवन्ति स्म। जलाहारवस्त्रादिकं विना नरकतुल्यजीवनमेव यापयन्ति स्म।
मलिनीकरणम् -आशङ्कामुत्पाद्य भारतस्य नगराण्यपि।
जनीवा :- विश्वारोग्यसमितेः पठने विश्वे अत्यधिकं मलिनीकरणम् उत्पद्यमानेषु नगरेषु चत्वारि नगराणि भारते एव। भारतस्य ग्वालियोर् ,अलहबाद् ,पाट्ना, राजपूर् इत्यदीन्येव चत्वारि नगराणि। इरान् राष्ट्रस्य साबूल् एव मलिनीकृतनगरेषु प्रथमम्। परिस्थितेः मलिनीकरणं हृदय-श्वासकोशसम्बन्धानाम् अनेकानां रोगाणां कारणं भवतीत्यवस्थायां विश्वारोग्यसमितिः आशङ्कां न्यवेदयत् ।