बृहदजगरं राजसर्पः अगलयत्।

१२ पादपरिमितः बृहद्राजसर्पः तथावत्परिमितम् अजगरं गिलति स्म। तालवृक्षवाटिकस्थाः कर्मकराः एतद्दृश्यं वीक्ष्य वनपालकान् ज्ञापितवन्तः।
कोटनाट् वनप्रविश्यायाः अधिकारी सर्पधारकविदग्धश्च जे बि साबुः आगत्य राजसर्पस्य वक्त्रात् अजगरं बहिर्नीतवान्। किन्तु त्रिपादपरिमितं राजसर्पान्तर्गतः अजगरः मृत आसीत्। राजसर्पस्तु गिलितम् अजगरं बहिर्गमयितुं शिष्टं गिलितुं वा अशक्तः विषमसन्धिं प्राप्तः आसीत्।
साबुवर्यस्तु बहुधा क्लेशयित्वा सर्पद्वयं पृथक्कृतवान्। द्वयस्यापि अतिभारत्वात् राजसर्पं स्वस्कन्धे स्थापयित्वा अजगरं हस्ते स्वीकृतवान्। अन्ते राजसर्पः जीवन्मरणसंग्रामं कृत्वा अजगरम् अवमत् च। राजसर्पं वनमेव विमोचयत।