संस्कृतकृतीनां संरक्षणाय श्रीशङ्कराचार्य विश्वविद्यालये नूतनपद्धतिः।
मार्टिन् क्रो दिवंगतः।
कालटी >शैक्षणिकश्रेष्ठतायै अग्रिमस्थानं दत्वा संस्कृतभाषाविकासाय विविधाः पद्धत्यः आसूत्रणं क्रियन्ते कालटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयेन । प्रचाल्यमानवर्षस्य आयव्ययपत्रके भाषापोषणाय बह्व्यः पद्धत्यः सन्ति।
केरलेषु विद्यमानानां संस्कृतकृतीनां संरक्षणाय * ई डाटा बेङ्क् * रूपवत्करिष्यति । एतदर्थम् आयव्ययपत्रके धनव्यवस्था अस्ति ।
संस्कृतपोषणाय निर्दिष्टमानाः इतराः पद्धत्यः । प्राचीनसंस्कृतग्रन्थान् छात्राणां सामान्यजनानां च उपयोगार्थं व्ववस्थां करिष्यति । श्रेष्ठकृतीनां प्रलेखनं कृत्वा संरक्षिष्यति । विद्योचितकर्ममण्डलस्य कार्यक्षमतां दृढीकर्तुं तथा उत्कर्षयितुं च निरीक्षणसमितिं रूपवत्करिष्यति । विश्वविद्यालयस्य प्रादेशिककेन्द्राणि श्रेष्ठत्वप्राप्तिम् अवाप्स्यन्ति। तिरुवनन्तपुरं , तिरूर् , पय्यन्नूर् प्रादेशिककेन्द्राणि गवेषणकेन्द्ररूपेण उद्धरिष्यति ।
संस्कृतभाषाव्यापनाय प्रादेशिकशासनसमितीनां सहकरणेन संस्कृतपठनपद्धतिः आयव्यपत्रके निर्दिष्टा अस्ति । पन्मना, एट्टुमानूर् केन्द्रयोः संस्कृतं जनरल् संस्कृतं साहित्यं बिरुदपाठ्यपद्धतीसहिताः नूतनाः पाठ्यपद्धत्यः निर्दिष्टाः । इदानीं प्रचाल्यमानानि निर्माणप्रवर्तनानि पूर्तीकरिष्यन्ति।
१८३.५८ कोटिरूप्यकाणाम् आयः १९६.५० कोटिरूप्यकाणां व्ययः १२.९२ कोटिरूप्यकाणां न्यूनतां च प्रदर्शकं पत्रकं आर्थिकसमित्यध्यक्षः डो एड्वेर्ड् एडेष़त् वर्येण अवतारितम् । विश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः अध्यक्षः अभवत्।
मार्टिन् क्रो दिवंगतः।
निकषस्पर्धासु १७ शतकानि १८ अर्धशतकानि, तथा १४३ एकदिनेषु ४ शतकानि ३४ अर्धशतकानि च तस्य क्रिकेट जीवने भूषणानि अभवन् ।
प्रवहद्विश्वविद्यालयः कोच्चीतः निर्गतः।
जनवरी ७ तमे दिने अमेरिक्कायां सान्डियागो नौकानिलयात् प्रस्थिता ओडीसी जप्पान् चैना वियट्नाम् सिङ्कपूर् बर्मा इत्येषां राष्ट्राणां सन्दर्शनानन्तपमेव भारते कोच्चीं प्राप्ता। यात्रिकाः अत्र विविधराज्येषु सन्दर्शनं कृत्वा तत्रस्थेषु सामाजिकाचारादिषु अवबोधं लब्धवन्तः।