साहितीक-पुरस्काराः वितरिताः

कार्यक्रमोsयं फ़रवरी-मासस्य विन्शे दिनाङ्के शनिवासरे [ २०-०२-२०१६ ] रात्रौ सार्धनववादने श्रोतुं शक्यते |
प्राणसङ्कटे अपि अवयवदानसन्नद्धः युवकः।
बंगलुरु >दुर्घटनायां मृतप्रायः अपि बंगलुरु तुमाकुरु स्वदेशीयः हरीष् नञ्चप्पः प्राणरक्षार्थं न रोदिति स्म। परं यावच्छक्यं स्वस्य अवयवान् गृहीतुं भिषग्वरादिरक्षकान् उद्बोधयन्नासीत्।
बंगलुरु नगरस्थे वैयक्तिकस्थापने कर्मकरः हरीष् नञ्चप्पः स्वबैक्याने गृहात् कर्मस्थानं गच्छन्नासीत्। मरणं 'ट्रक्' यानस्य रूपं घृत्वा आगतम्। किन्तु रक्षकान् स एवमेव अवोचत्। मत्तः यावच्छक्यम् अवयवान् स्वीकुर्वन्तु, अन्येषां प्राणरक्षार्थमुपकरिष्यन्ति। किन्तु दुर्घटनायां छिन्नभिन्नशरीरस्य तस्य नेत्रद्वयमेव उपकारितम्। अन्येषामवयवानां दोषाः संजाताः।
अक्बर् कक्कट्टिल् दिवंगतः।
कोष़िक्कोट् > केरलस्य प्रमुखःसाहित्यकारः अक्बर् कक्कट्टिल् (६८)कोष़िक्कोट् वैयक्तिकातुुरालये दिवंगतः। संवत्सरं यावत् रोगपीडितः आसीत्।
सामान्यजनानां चिन्ताः जीवितप्राराब्धाश्च अस्य कथाविषयी भूताः। अनेन विरचिताः अध्यापककथाः प्रसिद्धाः भवन्ति। केरल साहित्य अकादमी पुरस्कारात् प्रभृति अनेके पुरस्काराः एनं प्राप्तवन्ताः।