सौरोर्ज-विज्ञाने UAE प्रथमस्थाने।
दुबाय् > सौरोर्ज विज्ञानेषु उन्नतिं संप्राप्य UAE राष्ट्रं राष्ट्रान्तरान् प्रति प्रस्थानम् आरब्धम् । अस्मिन् अन्येषां सहकारिताम् अन्विष्य एव इयं यात्रा । ओक्तोबर् चतुर्थ दिनादारभ्य षष्टदिनपर्यन्तं दुबाय् इन्टर् नाशणल् कण्वन्षन् आन्ट् एक्सिबिशन् सेन्टर् मध्ये आयोज्यमाने वेट्टक्स् प्रदर्शनमेलने सौरोर्ज विज्ञानस्य विनिमयः भविष्यति ।
भारतस्य विविधराज्येषु सैरोर्ज योजना: सञ्चालयतुं प्रथानमन्त्रिणा मोदिर्वर्येण UAE सन्दर्शनसन्दर्भे चर्चा कृता आसीत् ।
भूमिकम्पः, १४ मृताः २१० आहताः।

मुफ्ति मुहम्मद् सयीद् गुरुतरावस्थायाम्।
दिल्ली - जम्मू काश्मीरस्य मुख्यमन्त्री मुफ्ती मुहम्मद सयिदः अत्यन्तगुरुतरावस्थायां दिल्ल्याम् एयिंस् आतुरालयं प्रविष्टः। न्यूनरक्तसम्मर्दः न्युमोणियाबाधा रक्तदोषश्च तस्मिन् दृश्यते इति आतुरालयाधिकृतैः उक्तम्।
यू ए ई राष्ट्रे प्रवेशनानुमतिनियमाः परिवर्तयन्ति।
दुबाय् - राष्ट्रप्रवेशनानुमतिनियमेषु यूएई राष्ट्रं सारवत्परिवर्तनं करोति। सन्दर्शकानां कर्मेप्सुनां कृते अत्यन्तं साहाय्यकरं भवति नूतन परिष्करणम्।
विसापत्रं परिष्कर्तुं राष्ट्रात् प्रत्यागमनं न कार्यम्। सन्दर्शकविसापत्रानुसारम् आगतानां नूतनविसापत्रं सम्पाद्य वृत्तिः शक्यते।सन्दर्शकविसापत्रस्य नवीकरणं सुसाध्यम्। एतादृशं परिष्करणं विदेशीयानाम् उपकारकम् भवति।