राज्यस्तरीयकलोत्सवे स्वागतगानरचयिता संस्कृताध्यापिका।

अस्य गानस्य संगीत साक्षात्कारं करोति प्रशस्तः हिन्दुस्तानी संगीतज्ञः रमेष् नारायणः।
अणुपरीक्षणम्-उत्तरकोरियां विरुध्य ओबाम।
वाषिङ्टण् > अणुपरीक्षणं कृतम् इति उक्तवताम् उत्तरकोरियां विरुध्य सुशक्तम् प्रतिरोधं भविष्यति इति अमेरिकाराष्ट्रस्य राष्ट्रपतिः बारक् ओबामा अवदत्। तदर्थं दक्षिणकोरिया जपान् राष्ट्रयोः सहकारितां संस्थापितवान् च।
उत्तरकोरियाया:
प्रवर्तनानि कदापि न अङ्गीकृतानि इति जप्पानस्य प्रधानमन्त्री षिन्से आबे
अवदत्। अणुविस्फोटकात् शक्तम् हैड्रजन् विस्फोटकमेव कोरियाराष्ट्रेण
परीक्षितम्।
भरतस्य तेजः विपणीम् अतिक्रम्यते ।

नवदिल्ली > भारतस्य युद्धविमानं (तेजस् ) बह्रिन् राष्ट्रस्य प्रदर्शनमेलायां प्रति गच्छति। जानुवरी मासस्य 21 दिनाङ्कत: 23 पर्यन्तं सक्कीर् एयर् बेस् मध्ये प्रदर्शनम् आयोजितम्। लोक विपणीम् उद्दिश्य एव अस्य प्रदर्शनम्।