नेताजीवर्यमधिकृत्य रेखा बहिरागच्छति।
नव दिल्ली > नेताजी सुभास् चन्द्रबोसमधिकृत्य लभ्यमानः वार्तासञ्चयः प्रधानमन्त्रिणा नरेन्द्रमोदिवर्योण श्वः आरभ्य प्रकाशयिष्यते। श्वः बसुमहोदयस्य जन्मवार्षिकदिनमेव।
अस्य महोदयस्य निधनमधिकृत्य ब्रिट्टीष् अन्तर्जाले १९४५ तमे मृतिमगात् इति सूच्यते।
अस्य महोदयस्य निधनमधिकृत्य ब्रिट्टीष् अन्तर्जाले १९४५ तमे मृतिमगात् इति सूच्यते।
कोच्चि > संस्कृत पण्डितः कवि: च असौ डि. श्रीमान् नम्पूतिरिः वार्धक्य सहजया अस्वास्थ्येन पीडितः आसीत्।
१०८ उपनिषदः , भागवतम् कविता च अनेन लिखिताः।
श्रीमान् नम्पूतिरिः तस्य कलासपर्यां पूर्तीकृत्य गतवान् इति संस्कृत क्षेत्रस्य दुःखस्य कारणम् । केरल संस्कृताध्यापक फेडरेषन् देलन महोदयस्य निधने तेषां व्यसनं प्रकाशयन् ।१०८ उपनिषदः , भागवतम् कविता च अनेन लिखिताः।
नटनविस्मया मृणाळिनी साराभायी कालयवनिकायां विलीना।
हैदराबाद् > भारतस्य नृत्तदेवता इति विख्याता मृणालिनी साराभायी - ९७ -तमे वयसि वार्धक्या सहजया अस्वास्थ्येन दिवंगता। हैदराबादे स्वगृहे ह्यः प्रभाते अन्त्यमभवत्। कथाकेलिं भरतनाट्यं च आधुनिककालानुसृतं परिष्कृत्य विदेशेषु अवतार्य प्रशस्तिमवाप। रवीन्द्रनाथठक्कुरस्य शिष्या आसीत्। तस्य चण्डालिका इति काव्यस्य नृत्तभाष्यं कृत्वा प्रशस्तिसोपानमारोहितवती। तया विरचितेषु ग्रन्थेषु भरतनाट्यसंबन्धाः त्रयः हार्ट् आफ वोय्स् इति आत्मकथा च प्रसिद्धाः भवन्ति। प्रशस्तः बहिराकाशशास्त्रज्ञः विक्रम साराभायी एतस्याः पतिरासीत्। प्रसिद्धा नर्तकी मल्लिकासाराभायी पुत्री चास्ति।
निषामस्य ३८ संवत्सराणां करागारवासः।
तृश्शूर् - भवनसमुच्चयस्य सुरक्षासेवकं चन्द्रबोसं अतिनिष्ठुरतया जधान इति विषये अपराधी मुहम्मद् निषामः ३८ संवत्सराणां कारागृहवासेन ७१ लक्षं रूप्यकाणाम् अार्थिकदण्डेन च दण्डितः।