भारतस्य आत्मानम् द्रेष्टुं संस्कृतभाषा ज्ञेयः - बिषप्प् मार्. जोसफ़् कल्लरङ्गाट्
पाला अतिरूपताया: बिषप्प् मार्. जोसफ़् कल्लरङ्गाट् महोदयः ग्रन्थानां विमोचनं करोति
पाला (केरलम् ) > संस्कृतपण्डितः रेव. डा. डा. जेक्कब् कत्तयक्कल् महाभागेन अनूदिता: भर्तृहरेः नीतिशतकस्य वैराग्यशतकस्य शृंगारशतकस्य च विमोचन सन्दर्भे भाषमाणः आसीत् सः। संस्कृतभाषा मानवान् शान्तस्वभावशुद्धतायां च नेष्यति इति च अनेन महाभागेन उक्तः।
नूतनविज्ञानस्य सदुपयोगः कथं करणीयमिति आदर्शभावेन प्रदर्शयन्ति अत्र - आण्ड्रोयिड् जङ्गमदूरवाणिमुपयुज्य इमानि पुस्तकानि DTP पुटविन्यासः च कृत्वा प्रकाशिताः इत्येव वैशिष्ट्यम्।
इतः पर्यन्तं शताधिकानां पुस्तकानां रचना अनेन महाभागेन कृतः अस्य 101, 102, 103 तमानि पुस्तकानि इमानि।
आकाशे कुसुमोत्पत्तिः।
वाषिङ्टण् > आकाशकुसुममिति कविसङ्कल्पः याथार्थ्यमभवत्। बहिराकाशे इदंप्रथमतया कुसुमं विकसितम्। अन्तराष्ट्र वहिराकाशनिलयस्य सस्य परीक्षणशालायां सीनिया नामकं सस्यं पुष्पितम्।
बहिराकाशनिलये कृत्रिमसंविधानेन एव सस्यस्य परिपालनम्।सूर्यप्रकाशस्य स्थाने रक्तनीलहरितवर्णाऩि एल् ई डि दीपानि उपयुक्तानि। बहिराकाशशास्त्रे सुप्रधानविजयः इति नासया प्रख्यापितम्।