आभ्यन्तरसुरक्षायै नूतना पद्धतिः।
नवदिल्ली >भारतस्य आभ्यन्तरसुरक्षार्थं सविशेषविभागं मन्त्रालयं वा रूपवत्कर्तुं प्रधानमन्त्री स्वेच्छां प्राकटयत्। पठान्कोट्ट् भीकराक्रमणस्य अनुभवात् एव नरेन्द्रमोदिनः ईदृशः निर्देशः।
अमेरिक्कादेशस्य हों लान्ट् सेक्यूरिटी इति मन्त्रालयसंस्था एव अस्याः पद्धत्याः आदर्शत्वेन स्वीकृता।
अमेरिक्कादेशस्य हों लान्ट् सेक्यूरिटी इति मन्त्रालयसंस्था एव अस्याः पद्धत्याः आदर्शत्वेन स्वीकृता।