अफ्गानसंसद् नरेन्द्रमोदिना उद्घाटिता।
अंबुजा - अफ्गानिस्तान् राष्ट्राय भारतेन निर्मीय दत्तं नवीनं संसद्भवनं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अफ्गानस्य राष्ट्रपतिः मुहम्मद् अषरफ् गनी च मिलित्वा उद्घाटितवन्तौ। उभयोः राष्ट्रयोः परस्परसौहृदस्य सहकरणस्य च प्रतीकः अस्ति नवीनं संसद्मन्दिरमिति मोदिवर्यः अवोचत्। उभयराष्ट्रसौहृदस्य शाक्तीकरणमुद्दिश्य २००७ तमे संवत्सरे नूतनसंसद्भवनं निर्मीय दातुं भारतं निश्चिकाय।६०० कोटि रूप्यकाणां निर्माणव्ययः अभवत्।भवनसमुच्चये अन्यतमविभागस्य भारतस्य भूतपूर्वप्रधानमन्त्रिणः अटल् बिहारी वाजपेयिवर्यस्य नामकरणाय निश्चय अपि कृतः।