केरलेषु संस्कृतप्रशिक्षणस्य सञ्चालनाय
१०१ संख्याकानां समितिः ।

महाप्रलयः - चेन्नै नगरं पृथक्कृतं;
साहाय्यहस्ताः प्रसरन्ति।
चेन्नै
- तमिल्नाडुराज्ये संवृत्तायां घोरवृष्ट्यां राजधानी चेन्नैनगरेण सहितानि ५
जनपदानि जलोपप्लवे आमग्नानि।३०० अधिकं जनाः मृताः । विद्युच्छक्तिः
स्थगिता। जनजीवनं निश्चलमभूत्। राजमार्गेण सहिताः सर्वे वीथयः जले निमग्नाः
अभवन्। राजधानी चेन्नै नगरं पृथक्कृतमभवत्। राष्ट्रस्य विविधभागेभ्यः
साहाय्यानि लभन्ते। प्रधानमन्त्री नरेन्द्रमोदी प्रलयमण्डलं सन्दर्श्य
१०००कोटिरूप्यकाणां साहाय्यं प्रख्यापितवान्।