भारतीय मेट्रो रेल् पद्धतीनां कृते जापान् ५,४७९ कोटि रूप्यकाणि ऋणम् दास्यति |
-
|
नवदिल्ली -चेन्नै मेट्रो रेल् पद्धत्याः कृते १,०६९ कोटि रूप्यकाणि तथा अहम्मदाबाद् मेट्रो रेल् पद्धत्याः कृते ४,४१० कोटि रूप्यकाणि जापान् लोण् दास्यति इति केन्द्र धनकार्यमन्त्रालयेन सूचितम् |
'वै फ़ै'विद्यायाः 100 गुणित वेगवान् लै-फ़ै
परीक्षणम् विजयं प्राप्तः
नवदिल्ली- भाविनि कालः LED प्रकाशकन्दः अन्तर्जालं संप्रेषयतुमुपकरिष्यति। 'वै-फ़ै'विद्यायाः स्थाने दृश्य प्रकाशस्य सहायेन दत्त(Data) सन्निवेशं कर्तुं लै-फ़ै ( Li-fi ) संविधानेन आरब्धः।
वै-फ़ै'विद्यायाः शतगुणितवेगवान् अयं निमिषाभ्यन्तरेण 1जिगाबैत् वेगेन
(1Gbps ) दत्तस्य सन्निवेशः सुसाध्यं करोति । सामान्य LED कन्दमिव
प्रकाशस्रोतः अन्तर्जाल-संबन्धः प्रकाशसंवेदकः च अस्मिन् सौकर्याय
पर्याप्तः। एस्तोनियायाः राजधान्यां टालिन् नाम नगरे 'वेल्मिन्नि
'(Velmenni) नाम संस्थया कार्यालयस्य अन्तर्भागे परीक्षणमकरोत्
'दृश्यप्रकाश संप्रेक्षणं ' ( VLC ) रङ्गेषु पुरोगमनम् इदानीम् साध्यम्
इति अनया संस्थया उक्तम् (Velmenni Jugnu )। नवदिल्यां भवति संस्थायाः अद्यतनकार्यालयः।