तिहार् कारागारतः अनुवैद्यानां स्थानान्तरीकरणं
- देहली सर्वकारस्योपरि विवादः।

दक्षिण चिट्टूर् सेन्ट् मेरीस्
माध्यमिकविद्यालये प्रधानमन्त्रिणः अभिनन्दनवर्षः।
कोच्ची -दक्षिण चिट्टूर् सेन्ट् मेरीस् माध्यमिकविद्यालय: सर्वेभ्यः आदर्श: जात:। अवयवदानबोधवत्करण प्रवर्तने उन्नतादर्शभूतचिन्तां जनेषु उदपादयितुं सर्वे छात्राः स्वस्वाङ्गुलिमुद्रा: भारतराष्ट्रस्य भूरेखाचित्रे मुद्रणं कृत्वा इतरेषां मार्गदर्शकाः अभवन्।
'मन् की बात्' इति कार्यक्रमे माननीय: प्रधानमन्त्री श्री नरेन्द्र मोदीवर्यः विद्यालयप्रवर्तकानाम् अभिनन्दनमर्पितवान् ।
कोच्ची - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं अद्य प्रचलति।तिरुवनन्तपुरं,कोल्लं , इटुक्की, कोषिक्कोट् , वयनाट्, कण्णूर् ,
कासरगोट् एतेषु जनपदेषु ३१,१६१ स्थानार्थिनः जनविधिम् इच्छन्ति।१.११कोटि
सम्मतिदातारः प्रथमपादे सन्ति।प्रातः सप्तवादनादारभ्य सायं
पञ्चवादनपर्यन्तं मतदानप्रक्रिया भविष्यति।
नियमसभानिर्वाचनस्य प्राक्परिशीलनमिति व्यवहार्यमाणे अस्मिन् निर्वाचने भरणपक्षेन यू डी एफ् दलेन , विपक्षदलेन एल् डि एफ् पक्षेन च साकं भाजपा अपि स्वशक्तिं परीक्षते।
सुवचनम्
अनतिक्रमणीया हि नियतिः ।
अद्य प्रथमः जनविधिः।

नियमसभानिर्वाचनस्य प्राक्परिशीलनमिति व्यवहार्यमाणे अस्मिन् निर्वाचने भरणपक्षेन यू डी एफ् दलेन , विपक्षदलेन एल् डि एफ् पक्षेन च साकं भाजपा अपि स्वशक्तिं परीक्षते।
सुवचनम्
अनतिक्रमणीया हि नियतिः ।